Chanakyashreyika Chapter 1- ‘Wanting to learn’
Chanakyashreyika Chapter 1- ‘Wanting to learn’ शेषमहोरात्रभागं पूर्वग्रहणं गृहीतपरिचयं च कुर्यात् । अगृहीतानामभीक्ष्ण्यं श्रवणं च ॥ [1] During the remaining part of the day and night, one should revise previously learnt lessons, reinforce what has already been grasped, and repeatedly listen to what has not yet been properly understood.” Kautilya’s arthashastra 1.5.15 चाणक्यश्रेयिका :- श्रीगणेशाय नमः। श्रीगुरुभ्यो नमः। अध्ययनं तु जीवने श्रेष्ठम्। अध्ययनसमर्थ्यं श्रेष्ठतरम् , अध्ययनार्था इच्छा तु श्रेष्ठतमा भवति। अर्थशास्त्रे प्रथमखण्डे पञ्चमे प्रकरणे “वृद्धसंयोगः” इति अध्याये आचार्यः पाठयति यत् दिवसस्य प्रमुखविभाजनं तु अध्ययनार्थं प्रयुञ्जीत , यतः महत्त्वं भवति अध्ययनस्य। “ वृद्धसंयोगः ” इति शब्दस्य अर्थः— अत्र वृद्धशब्दस्य अर्थः विद्वान् , अनुभवपूर्णः इति अस्ति , संयोगः इति सह समवेतः। वयं सर्वे अध्ययनं एवं पठनस्य ध्येयम् गृह्णीयाम। एकमेव अति सहजः सम्यक् मार्गः अस्ति अध्ययनस्य— अध्ययनम् , पुनरध्ययनम् , स्मरणम् इति। अध्ययनस्य पुनः व...