Chanakyashreyika Chapter 1- ‘Wanting to learn’
Chanakyashreyika
Chapter 1- ‘Wanting to learn’
शेषमहोरात्रभागं पूर्वग्रहणं
गृहीतपरिचयं च कुर्यात् ।
अगृहीतानामभीक्ष्ण्यं
श्रवणं च ॥ [1]
During the remaining part of the day and night, one should
revise previously learnt lessons, reinforce what has already been grasped, and
repeatedly listen to what has not yet been properly understood.” Kautilya’s arthashastra 1.5.15
चाणक्यश्रेयिका :-
श्रीगणेशाय
नमः। श्रीगुरुभ्यो नमः।
अध्ययनं तु जीवने श्रेष्ठम्। अध्ययनसमर्थ्यं श्रेष्ठतरम्, अध्ययनार्था इच्छा तु श्रेष्ठतमा भवति।
अर्थशास्त्रे प्रथमखण्डे पञ्चमे प्रकरणे “वृद्धसंयोगः” इति अध्याये आचार्यः पाठयति यत् दिवसस्य प्रमुखविभाजनं तु अध्ययनार्थं प्रयुञ्जीत, यतः महत्त्वं भवति अध्ययनस्य।
“वृद्धसंयोगः” इति शब्दस्य अर्थः— अत्र वृद्धशब्दस्य अर्थः विद्वान्, अनुभवपूर्णः इति अस्ति, संयोगः इति सह समवेतः। वयं सर्वे अध्ययनं एवं पठनस्य ध्येयम् गृह्णीयाम। एकमेव अति सहजः सम्यक् मार्गः अस्ति अध्ययनस्य— अध्ययनम्, पुनरध्ययनम्, स्मरणम् इति। अध्ययनस्य पुनः विविधा मार्गाः सन्ति, पुनरध्ययनस्य अपि, स्मरणस्य अपि च, उदाहरणार्थं श्रवणम्, पठनम्, लेखनम् इत्यादयः। एष मार्गः त्वां ध्येयपर्यन्तं अवश्यं नयति। यदि त्वं महत्त्वाकाङ्क्षी मनुष्यः असि, तर्हि ध्येयप्राप्तिः साध्या भवति। जीवने सहजं ज्ञानप्राप्तिः अशक्या इति जानीयाम।
अतः निजसुखार्थं पुरुषार्थसाधनार्थं च प्रयत्नपूर्वकं ध्येयसाधनं तव कर्तव्यम्। निर्भयो भव संकल्पयुक्तो भव ज्ञानप्रीत्यर्थम् इच्छुकः भव, ज्ञानसाधनं विना सर्वं व्यर्थम्। आरम्भं च एतत् सिद्धान्तस्य आचरणं कुरु। आधुनिककाले युवाः संभ्रमात् आचरणं कुर्वन्ति— एतत् दृश्यं तु एतस्मै समाजाय ह्रासकरम् एतादृशसमाजस्य कारणेन अस्मिन् देशे ह्रासः भवति। अतः प्रथमं त्वं स्वपरीक्षां कुरु, सम्यक् सिद्धान्तं प्रयुज्य तनमनपूर्णतया अध्ययनं कुरु।
अथ सारः— यथा सारंविना अध्ययनं च ज्ञानप्राप्तीच्छारहितम् , तथा अनन्ताकाशे नक्षत्राणां दिनेदिने स्वगृहात् गणनम् इव;
उभयस्यापि एकं
सत्त्वं शून्यमेव च।
इति बोधव्यम् ।।
-Shrutika Patankar ©
First, judge yourself and your wanting to
learn, plan and choose what, and for how to- Remember what Chanakya says. Learn.Revise.Memorise
and from my side add a further step- apply. Whatever it may be- maths, science,
fine arts, literally you name it. Just go for it. And develop that wanting for
learning. A simile I would present – “Learning without the actual essence
of it and wanting is like counting stars from one place every day, you will
feel a lot is being done, but the truth is ‘zero’.”
-Shrutika Patankar
©

Comments
Sadly no one in the education line mentions him or his theories which actually are helpful in every stage of learning.
Secondly a round of applause for Sanskrit. As you mentioned a point "from you" in the writeup, Apply- you did it perfectly well dear. I, who very rarely reads sanskrit text now, though did during my education, was able to understand everything clearly.
It proves your point, though can not compose a sentence can understand one, means if learned whole-heartedly remains forever with you.
Well explained in a beautiful way with duo of languages.
Interested in coming links ❤️❤️